|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.49. अध्यायः 049
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
वैशम्पानेन जनमेजयंप्रति द्वैपायनादिभिर्युधिष्ठिरम्प्रत्युक्तमहादेवमहिमानुवादः॥ 1 ॥

Mahabharata - Anushaasana Parva - Chapter Text
वैशम्पायन उवाच।
महायोगी तु तं प्राह कृष्णद्वैपायनो मुनिः।
पठस्व पुत्र भद्रं ते प्रीयतां ते महेश्वरः॥ 13-49-1(83385)
पुरा पुत्र मया मेरौ तप्यता परमं तपः।
पुत्रहेतोर्महाराज स्तव एषोऽनुकीर्तितः॥ 13-49-2(83386)
लब्धवानीप्सितं काममहं वै पाण्डुनन्दन।
तथा त्वमपि शर्वाद्धि सर्वान्कामानवाप्स्यसि॥ 13-49-3(83387)
कपिलश्च ततः प्राह साङ्ख्यर्षिर्देवसम्मतः।
मया जन्मान्यनेकानि भक्त्या चाराधितो भवः।
प्रीतश्च भगवाञ्ज्ञानं ददौ मम भवान्तकम्॥ 13-49-4(83388)
चारुशीर्षस्ततः प्राह शक्रस्य दयितः सखा।
आलम्बायन इत्येवं विश्रुतः करुणात्मकः॥ 13-49-5(83389)
मया गोकर्णमासाद्य तपस्तप्त्वा शतं समाः।
अयोनिजानां दान्तानां धर्मज्ञानां सुवर्चसाम्॥ 13-49-6(83390)
अजराणामदुःखानां शतवर्षसहस्रिणाम्।
लब्धं पुत्र शतं शर्वात्पुरा पाण्डुनृपात्मज॥ 13-49-7(83391)
वाल्मीकिश्चाह भगवान्युधिष्ठिरमिदं वचः।
विवादे साग्निमुनिभिर्ब्रह्मघ्नो वै भवानिति॥ 13-49-8(83392)
उक्तः क्षणेन चाविष्टस्तेनाधर्मेण भारत।
सोऽहमीशानमनघममोघं शरणं गतः॥ 13-49-9(83393)
मुक्तश्चास्मि ततः पापैस्ततो दुःखविनाशनः।
आह मां त्रिपुरघ्नो वै यशस्तेऽग्र्यं भविष्यति॥ 13-49-10(83394)
जामदग्न्यश्च कौन्तेयमिदं धर्मभृतांवरः।
ऋषिमध्ये स्थितः प्राह ज्वलन्निव दिवाकरः॥ 13-49-11(83395)
पितृविप्रवधेनाहमार्तो वै पाण्डवाग्रज।
शुचिर्भूत्वा महादेवं गतोस्मि शरणं नृप॥ 13-49-12(83396)
नामभिश्चास्तुवं देवं ततस्तुष्टोऽभवद्भवः।
परशुं च ततो देवो दिव्यान्यस्त्राणि चैव मे॥ 13-49-13(83397)
पापं च ते न भविता अजेयश्च भविष्यसि।
न ते प्रभविता मृत्युरजरश्च भविष्यसि॥ 13-49-14(83398)
आह मां भगवानेवं शिखण्डी शिवविग्रहः।
तदवाप्तं च मे सर्वं प्रसादात्तस्य धीमतः॥ 13-49-15(83399)
विश्वामित्रस्तदोवाच क्षत्रियोऽहं तदाऽभवम्।
ब्राह्मणोऽहं भवानीति मया चाराधितो भवः।
तत्प्रसादान्मया प्राप्तं ब्राह्मण्यं दुर्लभं महत्॥ 13-49-16(83400)
असितो देवलश्चैव प्राह पाण्डुसुतं नृपम्॥ 13-49-17(83401)
शापाच्छक्रस्य कौन्तेय विभो धर्मोऽनशत्तदा।
तन्मे धर्मं यशश्चाग्र्यमायुश्चैवाददत्प्रभुः॥ 13-49-18(83402)
ऋषिर्गृत्समदो नाम शक्रस्य दयितः सखा।
प्राहाजमीढं भगवान्बृहस्पतिसमद्युतिः॥ 13-49-19(83403)
वरिष्ठो नाम भगवांश्चाक्षुषस्य मनोः सुतः।
शतक्रतोरचिन्त्यस्य सत्रे वर्षसहस्रिके॥ 13-49-20(83404)
वर्तमानेऽब्रवीद्वाक्यं साम्नि ह्युच्चारिते मया।
रथन्तरे द्विजश्रेष्ठ न सम्यगिति वर्तते॥ 13-49-21(83405)
समीक्षस्व पुनर्बुद्ध्या पापं त्यक्त्वा द्विजोत्तम।
अयज्ञवाहिनं पापमकार्षीस्त्वं सुदुर्मते॥ 13-49-22(83406)
एवमुक्त्वा महाक्रोधः प्राह शम्भुं पुनर्वचः।
प्रज्ञया रहितो दुःखी नित्यभीतो वनेचरः॥ 13-49-23(83407)
दशवर्षसहस्राणि दशाष्टौ च शतानि च।
नष्टपानीयपवने मृगैरन्यैश्च वर्जिते॥ 13-49-24(83408)
अयज्ञीयद्रुमे देशे रुरुसिंहनिषेविते।
भविता त्वं मृगः क्रूरो महादुःखसमन्वितः॥ 13-49-25(83409)
तस्य वाक्यस्य निधने पार्थ जातो ह्यहं मृगः।
ततो मां शरणं प्राप्तं प्राह योगी महेश्वरः॥ 13-49-26(83410)
अजरश्चामरश्चैव भविता दुखवर्जितः।
साम्यं ममास्तु ते सौख्यं युवयोर्वर्धतां क्रतुः॥ 13-49-27(83411)
अनुग्रहानेवमेष करोति भगवान्विभुः।
अयं धाता विधाता च सुखदुःखे च सर्वदा॥ 13-49-28(83412)
अचिन्त्य एष भगवान्कर्मणा मनसा गिरा।
न मे तात युधिश्रेष्ठ विद्यया पण्डितः समः॥ 13-49-29(83413)
वासुदेवस्तदोवाच पुनर्मतिमतांवरः।
सुवर्णाक्षो महादेवस्तपसा तोषितो मया॥ 13-49-30(83414)
ततोऽथ भगवानाह प्रीतो मा वै युधिष्ठिर।
अर्थात्प्रियतरः कृष्ण मत्प्रसादाद्भविष्यसि॥ 13-49-31(83415)
अपराजितश्च युद्धेषु तेजश्चैवानलोपमम्।
एवं सहस्रशश्चान्यान्महादेवो वरं ददौ॥ 13-49-32(83416)
मणिमन्थेऽथ शैले वै पुरा सम्पूजितो मया।
वर्षायुतासहस्राणां सहस्रं शतमेव च॥ 13-49-33(83417)
ततो मां भगवान्प्रीत इदं वचनमब्रवीत्।
वरं वृणीष्व भद्रं ते यस्ते मनसि वर्तते॥ 13-49-34(83418)
ततः प्रणम्य शिरसा इदं वचनमब्रवम्।
यदि प्रीतो महादेवो भक्त्या परमया प्रभुः॥ 13-49-35(83419)
नित्यकालं तवेशान भक्तिर्भवतु मे स्थिरा।
एवमस्त्विति भगवांस्तत्रोक्त्वान्तरधीयत॥ 13-49-36(83420)
जैगीषव्य उवाच। 13-49-37x(6866)
ममाष्टगुणमैश्वर्यं दत्तं भगवता पुरा।
यत्नेनान्येन बलिना वाराणस्यां युधिष्ठिर॥ 13-49-37(83421)
गर्ग उवाच। 13-49-38x(6867)
चतुःषष्ट्यङ्गमददत्कलाज्ञानं ममाद्भुतम्।
सरस्वत्यास्तटे तुष्टो मनोयज्ञेन पाण्डव॥ 13-49-38(83422)
तुल्यं मम सहस्रं तु सुतानां ब्रह्मवादिनाम्।
आयुश्चैव सपुत्रस्य संवत्सरशतायुतम्॥ 13-49-39(83423)
पराशर उवाच। 13-49-40x(6868)
प्रसाद्येह पुरा शर्वं मनसाऽचिन्तयं नृप।
महातपा महातेजा महायोगी महायशाः॥ 13-49-40(83424)
वेदव्यासः श्रियावासो ब्राह्मणः करुणान्वितः।
अप्यसावीप्सितः पुत्रो मम स्याद्वै महेश्वरात्॥ 13-49-41(83425)
इति मत्वा हृदि मतं प्राह मां सुरसत्तमः।
मयि सम्भावना यास्याः फलात्कृष्णो भविष्यति॥ 13-49-42(83426)
सावर्णस्य मनोः सर्गे सप्तर्षिश्च भविष्यति।
वेदानां च स वै वक्ता कुरुवंशकरस्तथा॥ 13-49-43(83427)
इतिहासस्य कर्ता च पुत्रस्ते जगतो हितः।
भविष्यति महेन्द्रस्य दयितः स महामुनिः॥ 13-49-44(83428)
अजरश्चामरश्चैव पराशर सुतस्तव।
एवमुक्त्वा स भगवांस्तत्रैवान्तरधीयत।
युधिष्ठिर महायोगी वीर्यवानक्षयोऽव्ययः॥ 13-49-45(83429)
माण्डव्य उवाच। 13-49-46x(6869)
अचोरश्चोरशङ्कायां शूले भिन्नो ह्यहं तदा॥ 13-49-46(83430)
तत्रस्थेन स्तुतो देवः प्राह मां वै नरेश्वर।
मोक्षं प्राप्स्यसि शूलाच्च जीविष्यसि समार्बुदम्॥ 13-49-47(83431)
रुजा शूलकृता चैव न ते विप्र भविष्यति।
आधिभिर्व्याधिभिश्चैव वर्जितस्त्वं भविष्यति॥ 13-49-48(83432)
पादाच्चतुर्थात्सम्भूत आत्मा यस्मान्मुने तव।
त्वं भविष्यस्यनुपमो जन्म वै सफलं कुरु॥ 13-49-49(83433)
तीर्थाभिषेकं सकलं त्वमविघ्नेन चाप्स्यसि।
स्वर्गं चैवाक्षयं विप्र विदधामि तवोर्जितम्॥ 13-49-50(83434)
एवमुक्त्वा तु भगवान्वरेण्यो वृषवाहनः।
महेश्वरो महाराजः कृत्तिवासा महाद्युतिः।
सगणो दैवतश्रेष्ठस्तत्रैवान्तरधीयत॥ 13-49-51(83435)
गालव उवाच। 13-49-52x(6870)
विश्वामित्राभ्यनुज्ञातो ह्यहं पितरमागतः।
अब्रवीन्मां ततो माता दुःखिता रुदती भृशम्॥ 13-49-52(83436)
कौशिकेनाभ्यनुज्ञातं पुत्रं देवविभूषितम्।
न तात तरुणं दान्तं पिता त्वां पश्यतेऽनघ॥ 13-49-53(83437)
श्रुत्वा जनन्या वचनं निराशो गुरुदर्शने।
नियतात्मा महादेवमपश्यं सोऽब्रवीच्च माम्॥ 13-49-54(83438)
पिता माता च ते त्वं च पुत्र मृत्युविवर्जिताः।
भविष्यथ विश क्षिप्रं द्रष्टासि पितरं क्षये॥ 13-49-55(83439)
अनुज्ञातो भगवता गृहं गत्वा युधिष्ठिर।
अपश्यं पितरं तात इष्टिं कृत्वा विनिःसृतम्।
उपस्पृश्य गृहीत्वेध्मं कुशांश्च शरणाकुरून्॥ 13-49-56(83440)
तान्विसृज्य च मां प्राह पिता सास्राविलेक्षणः।
प्रणमन्तं परिष्वज्य मूर्ध्न्युपाघ्राय पाण्डव॥ 13-49-57(83441)
दिष्ट्या दृष्टोसि मे पुत्र कृतविद्य इहागत॥ 13-49-58(83442)
वैशम्पायन उवाच। 13-49-59x(6871)
एतान्यत्यद्भुतान्येव कर्माण्यथ महात्मनः।
प्रोक्तानि मुनिभिः श्रुत्वा विस्मयामास पाण्डवः॥ 13-49-59(83443)
ततः कृष्णोऽब्रवीद्वाक्यं पुनर्मतिमतांवरः।
युधिष्ठिरं धर्मनिधिं पुरुहूतमिवेश्वरः॥ 13-49-60(83444)
उपमन्युर्मयि प्राह तपन्निव दिवाकरः।
अशुभैः पापकर्माणो ये नराः कलुषीकृताः॥ 13-49-61(83445)
ईशानं न प्रपद्यन्ते तमोराजसवृत्तयः। 13-49-62(83446)
ईश्वरं सम्प्रपद्यन्ते द्विजा भावितभावनाः॥ 13-49-63(83447)
सर्वथा वर्तमानोपि यो भक्तः परमेश्वरे।
सदृशोऽरण्यवासीनां मुनीनां भावितात्मनाम्॥ 13-49-64(83448)
ब्रह्मत्वं केशवत्वं वा शक्रत्वं वा सुरैः सह।
त्रैलोक्यस्याधिपत्यं वा तुष्टो रुद्रः प्रयच्छति 13-49-65(83449)
मनसाऽपि शिवं तात ये प्रपद्यन्ति मानवाः।
विधूय सर्वपापानि देवैः सह वसन्ति ते॥ 13-49-66(83450)
भित्त्वाभित्त्वा च कूलानि हुत्वा सर्वमिदं जगत्।
जयेद्देवं विरूपाक्षं न स पापेन लिप्यते॥ 13-49-67(83451)
सर्वलक्षणहीनोपि युक्तो वा सर्वपातकैः।
सर्वं तुदति तत्पापं भावयञ्शिवमात्मना 13-49-68(83452)
कीटपक्षिपतङ्गानां तिरश्चामपि केशव।
महादेवप्रपन्नानां न भयं विद्यते क्वचित्॥ 13-49-69(83453)
एवमेव महादेवं भक्ता ये मानवा भुवि।
न ते संसारवशगा इति मे निश्चिता मतिः।
ततः कृष्णोऽब्रवीद्वाक्यं धर्मपुत्रं युधिष्ठिरम्॥ 13-49-70(83454)
विष्णुरुवाच। 13-49-71x(6872)
आदित्यचन्द्रावनिलानलौ च
द्यौर्भूमिरापो वसवोऽथ विश्वे।
धाताऽर्यमा शुक्रबृहस्पती च
वेदा यज्ञा दक्षिणा वेदवाहाः। 13-49-71(83455)
सोमो यष्टा यच्च हव्यं हविश्च
रक्षा दीक्षा संयमा ये च केचित्॥ 13-49-72(83456)
स्वाहा वौषट् ब्राह्मणाः सौरभेयी
धर्मं चाग्र्यं कालचक्रं बलं च।
यशो दमो बुद्धिमतां स्थितिश्च
शुभाशुभं ये मुनयश्च सप्त॥ 13-49-73(83457)
अग्र्या बुद्धिर्मनसा दर्शने च
स्पर्शश्चाग्र्यः कर्मणां या च सिद्धिः।
गणा देवानामूष्मपाः सोमपाश्च
लेखाः सुयामास्तुषिता ब्रह्मकायाः॥ 13-49-74(83458)
आभासुरा गन्धपा धूमपाश्च
वाचा विरुद्धाश्च मनोविरुद्धाः।
शुद्धाश्च निर्माणरताश्च देवाः
स्पर्शाशना दर्शपा आज्यपाश्च॥ 13-49-75(83459)
चिन्त्यद्योता ये च देवेषु मुख्या
ये चाप्यन्ते देवताश्चाजमीढ।
सुपर्णगन्धर्वपिशाचदानवा
यक्षास्तथा चारणपन्नगाश्च॥ 13-49-76(83460)
स्थूलं सूक्ष्मं मृदु चाप्यसूक्ष्मं
दुःखं सुखं दुःखमनन्तरं च।
साङ्ख्यं योगं तत्पराणां परं च
शर्वाञ्जातं विद्धि य***********॥ 13-49-77(83461)
तत्सम्भूता भूतकृतो वरेण्या
सर्वे देवा भुवनस्यास्य गोपाः।
आविश्येमां धरणीं येऽभ्यरक्षन्
पुरातनीं तस्य देवस्य सृष्टिम्॥ 13-49-78(83462)
विचिन्वन्तस्तपसा तत्स्थवीयः
किञ्चित्तत्त्वं प्राणहेतोर्नतोस्मि।
ददातु वेदः स वरानिहेष्टा-
नभिष्टुतोः नः प्रभुरव्ययः सदा॥ 13-49-79(83463)
इमं स्तवं सन्नियतेन्द्रियश्च
भूत्वा शुचिर्यः पुरुषः पठेत।
अभग्नयोगो नियतो मासमेकं
सम्प्राप्नुयादश्वमेधे फलं यत्॥ 13-49-80(83464)
वेदान्कृत्स्नान्ब्राह्मणः प्राप्नुयात्तु
जयेन्नृपः पार्थ महीं च कृत्स्नाम्।
वैश्यो लाभं प्राप्नुयान्नैपुणं च
शूद्रो गतिं प्रेत्य तथा सुखं च॥ 13-49-81(83465)
स्तवराजमिमं कृत्वा रुद्राय दधिरे मनः।
सर्वदोषापहं पुण्यं पवित्रं च यशस्विनः॥ 13-49-82(83466)
यावन्त्यस्य शरीरेषु रोमकूपाणि भारतः।
तावन्त्यब्दसहस्राणि स्वर्गे वसति मानवः॥ ॥ 13-49-83(83467)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकोनपञ्चाशोऽध्यायः॥ 49 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-49-1 पठस्व स्तवमिति शेषः। हे पुत्र युधिष्ठिर॥ 7-49-5 आलम्बायन आलम्बगोत्रः। चतुःशीर्ष इति ट.थ.पाठः॥ 7-49-7 हे पुत्र शतं पुत्राणामिति शेषः॥ 7-49-8 विवादे वेदविपरीतवादे। अग्निसहितैर्मुनिभिरुक्त इति सम्बन्धः॥ 7-49-9 तेन वेदविरोधजेन॥ 7-49-12 पितृतुल्या विप्रा ज्येष्ठो भ्राता पितुः सम इतिस्मृतेर्ज्येष्ठा भ्रातरस्तेषां वधेन। स तु विप्रवधेनेति ट.थ पाठः॥ 7-49-15 शिखण्डी कपर्दी। शिवविग्रहः कल्याणशरीरः॥ 7-49-18 प्रभुः प्रार्थितः सन्निति शेषः॥ 7-49-21 उच्चारिते अन्यथेति शेषः॥ 7-49-22 पापं वितथाभिनिवेशं त्यक्त्वा समीक्षस्व विचारय। अयज्ञवाहिनं न यज्ञं वहति तं पापमवाक्षरपाठजमपराधम्॥ 7-49-23 निधने अन्दे सद्य एवेत्यर्थः॥ 7-49-27 साम्यभवैषम्यम्। युवयोर्गृत्समदशतक्रत्वोः॥ 7-49-31 अर्थः सर्वस्मात्प्रियस्ततोऽपि प्रियोऽन्तरात्मा तत्तुल्यः सर्वेषां भविष्यसीत्यर्थः॥ 7-49-33 पूरा पूर्वावतारे॥ 7-49-42 या तव मयि सम्भावना एतस्मात्फलमहं प्राप्स्ये इति अस्याः फलात् पुण्यात्तव कृष्णोनाम पुत्रो भविष्यति॥ 7-49-49 पादाच्चतुर्थात्। तपः शौचं दया सत्यमिति चत्वारो धर्मस्य पादास्तेषां चतुर्थात्सत्यादेव तवात्मा शरीरम्॥ 7-49-52 पितरं द्रक्ष्ये इति बुद्ध्या गृहमागतः। दुःखिता वैधव्यदुःखेन॥ 7-49-55 क्षये गृहे। विश प्रविश॥ 7-49-56 शरणाकुरून् वाय्वाघातेन वा स्वयं वा पक्वतया फलानामधः पतनेन विशरणं शरणा तत्प्रधानाः कुरवोऽन्नानि शरणाकुरवस्तान्। शॄ विशरणेऽस्माद्भावे ल्युः॥ 7-49-57 सास्रत्वादाविले ईक्षणे यस्य॥ 7-49-60 ईश्वरो विष्णुः॥ 7-49-67 कूलानि गृहतटाकादीनि॥ 7-49-68 आत्मना चित्तेन॥ 7-49-71 आदित्यचन्द्रावित्यादिसर्वं सर्वाज्जातं विद्धीति सप्तमस्थेनान्वयः॥ 7-49-72 उपनिषत्। प्राधान्यात्पृथक्कीर्तनम्। वेदवाहा वेदपाठकाः॥ 7-49-75 वाचाविरुद्धाः। वाङ्नियमनशीलाः। निर्माणं अनेकधाभवनं योगेनानेकशरीरधारणं तत्र रताः॥ 7-49-77 चिन्त्यद्योताः सङ्कल्पितमात्रं वस्तु येषां सद्यः पुरतः प्रकाशते तादृशाः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|